भाष्यरत्नप्रभाव्याख्या
शब्दादिभेदाधिकरणम्
नाना शब्दादिभेदात् ।
शाण्डिल्यादिब्रह्मविद्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपैक्यभावाभावाभ्यां संशये दृष्टान्तसंगत्या पूर्वपक्षमाह -
पूर्वस्मिन्निति ।
रूपैक्याच्च विद्यैक्यमित्याह -
अपि चेति ।
विद्यैक्यं चेदेकश्रुत्युक्तविद्यायाः श्रुत्यन्तरेऽप्युक्तिर्वृथेत्यत आह -
श्रुतिनानात्वमपीति ।
पूर्वपक्षफलमाह -
तस्मादिति ।
सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति -
वेद्याभेदेऽपीति ।
ननु भिन्नभावार्थवाचकशब्दः शब्दान्तरं यथा 'यजति ददाति जुहोति' इति तस्मिञ्शब्दभेदे कर्मशब्दितविध्यर्थभावानाया भेदो युक्तस्तस्याः कृतानुबन्धत्वाद्भेदेन स्वीकृतविषयत्वाद्भावार्थभेदादिति यावत् । प्रकृते तु वेदोपासीतेत्यादिशब्दार्थोपास्तेर्यागदानहोमवत्स्वतो भेदाभावात्सिद्धगुणकब्रह्मण एकत्वेन विषयतोऽपि भेदाभावात्कथमुपास्तिभेद इति शङ्कते -
नन्विति ।
अत्र सूत्रे शब्दभेदोऽभ्युच्चयमात्रतयोक्तः, विद्यानानात्वे सम्यग्घेतवस्त्वादिपदोपात्ता गुणादय एव । तथा हि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति । यथा आरुण्यादिगुणानां क्रयणभावनान्वयितया कार्यत्वं तथाच तत्तत्प्रकरणेषूत्पत्तिशिष्टैरुपास्तिभावनान्वयितया साध्यैस्तत्तद्गुणैर्विशिष्टतयोपास्यरूपभेदादुपासनाभेदः ।
यथा छत्रचामरादिगुणभेदेन राजोपास्तिभेदः, यथावामिक्षावाजिनगुणभेदेन यागभेदस्तद्वत् । तथा प्रतिविद्यं फलसंयोगभेदाद्दहरशाण्डिल्यादिसमाख्याभेदाद्भेद इति समाधत्ते -
नैष दोष इत्यादिना ।
यदुक्तं श्रुतिनानात्वं गुणान्तरविध्यर्थमिति तन्नेत्याह -
न चात्रैक इति ।
किञ्च प्राप्तविद्यानुवादेनाप्राप्तानेकगुणविधाने वाक्यभेदः स्यादित्याह -
अनेकत्वाच्चेति ।
किञ्च विद्यैक्यपक्षे गुणानां पुनरुक्तिर्वृथा, नच प्रत्यभिज्ञानार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्यानानात्वपक्षे तु गुणानामप्राप्तेः सा प्राप्त्यर्थेत्याह -
न चास्मिन्पक्ष इति ।
फलभेदाच्चोदनैक्याभावात्सर्वगुणध्यानस्याशक्यत्वाच्च विद्या नानेत्याह -
प्रतिप्रकरणं चेत्यादिना ।
दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्वत्रान्नमत्तीत्यादिफलभेद इत्यर्थः ।
ननु विद्यानानात्वे सिद्धे पश्चाद्दहरादिविद्या प्रतिवेदान्तमेकाऽनेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह -
स्थिते चेति ।
विद्यानानात्वाधिकरणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः ॥५८॥