अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

असम्भवाधिकरणम्

असम्भवस्तु सतोऽनुपपत्तेः ।

'अना­द्य­नन्तं महतः परं ध्रुवम् ', 'न चास्य कश्चि­ज्ज­निता' इत्यादि ब्रह्मा­ना­दि­त्व­श्रु­तीनां 'त्वं जातो भवसि विश्व­तो­मुखः' इत्यु­त्प­त्ति­श्रुत्या विरोधोऽस्ति न वेत्ये­क­वा­क्य­त्व­भा­वा­भा­वाभ्यां सन्देहेऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वा­दे­र­मृ­त­त्वा­दि­क­मु­त्प­त्ति­श्रु­ति­ब­ला­दा­पे­क्षिकं तथा ब्रह्मा­ना­दि­त्व­मा­पे­क्षि­क­मिति दृष्टा­न्त­स­ङ्गत्या एकदेशिपक्षं प्रापयति -
वियदिति ।

ब्रह्म कुतश्चिज्जायते, कारणत्वात् , आका­श­वा­दि­त्य­नु­मा­ना­नु­ग्र­हा­ज्ज­न्म­श्रु­ति­र्ब­ली­य­सी­त्याह -
तथेति ।

न चाना­दि­का­र­णा­भा­वे­ना­न­वस्था बीजा­ङ्कु­र­व­द­ना­दि­त्वो­प­पत्तेः । तथा च दीपा­द्दी­प­व­द्ब्र­ह्मा­न्त­रा­द्ब्र­ह्मा­न्त­रो­त्पत्तिः, उत्प­त्ति­श्रुत्या चाना­दि­त्व­श्रु­ति­र्ने­ये­त्य­ना­द्य­न­न्त­ब्र­ह्म­स­म­न्व­या­सि­द्धि­रिति प्राप्ते मुख्य­सि­द्धा­न्त­माह -
तामिति ।

ब्रह्म न च जायते, कारणशून्यत्वात् , नरविषाणवत् , व्यतिरेकेण घट­व­च्चे­त्य­नु­मा­ना­नु­ग्र­हा­द्वि­पक्षे चाका­र­ण­क­का­र्य­वा­द­प्र­स­ङ्गा­द्ब्र­ह्मा­ना­दि­त्व­श्रु­तयो बलीयस्य इति कार­ण­त्व­लि­ङ्ग­बा­धा­ज्ज­न्म­श्रुतिः कार्याभेदेन व्याख्ये­ये­त्य­ना­द्य­न­न्त­ब्र­ह्म­स­म­न्व­य­सि­द्धि­रिति सिद्धान्तफलम् । न हेत्वसिद्धिः, कार­ण­स्या­नि­रू­प­णात् । तथा हि किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा । न त्रेधापीत्याह -
सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमि­त्त­मि­त्य­नु­दा­ह­र­णम् । विय­त्प­व­न­यो­र्ब्र­ह्म­णश्च विभ­क्त­त्वा­वि­भ­क्त­त्वाभ्यां कार­ण­भा­वा­भा­वाभ्यां च वैषम्यम् । कार­ण­त्व­लि­ङ्ग­स्या­प्रा­मा­णि­का­न­वस्था ।

तर्केणापि बाधमाह -
न च विकारेभ्य इत्यादिना ।
कार­ण­स्या­न­भ्यु­प­गमे यदृ­च्छा­वा­द­प्र­सङ्गः, अना­दि­का­र­णा­न­भ्यु­प­ग­मेऽ­न­व­स्था­प्र­सङ्गः, तदभ्युपगमे ब्रह्म­वा­द­प्र­सङ्गः, कारणान्तरस्य प्रधा­ना­दे­र्नि­रा­सा­दिति भावः ॥९॥