भाष्यरत्नप्रभाव्याख्या
नातिचिराधिकरणम्
नातिचिरेण ।
उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति -
तत्रेत्यादिना ।
अनियमात्कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहियवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः ।
नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह -
सुखदुःखताविशेषश्चायमिति ।
अवधिः कालः ॥२३॥