अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

मातरिश्वाधिकरणम्

एतेन मातरिश्वा व्याख्यातः ।

अतिदेशत्वान्न पृथ­क्स­ङ्ग­त्या­द्य­पेक्षा । 'तत्ते­जोऽ­सृ­जत' इति श्रुतेः । 'आका­शा­द्वायुः' इति श्रुत्या विरोधोऽस्ति न वेति एक­वा­क्य­त्व­भा­वा­भा­वाभ्यां संशये गौण­प­क्ष­पू­र्व­प­क्ष­सि­द्धा­न्त­प­क्षा­न­ति­दि­शति -
तत्रापीत्यादिना ।

पूर्वत्र ह्याका­शा­न­न्तर्यं तेजसः स्थापितम् , तत्र वायु­ते­ज­सो­स्तु­ल्य­व­दा­न­न्तर्ये वायोरग्निरिति क्रम­श्रु­ति­बा­धा­त्पौ­र्वा­पर्ये तेजः­प्रा­थ­म्य­भ­ङ्गा­न्नै­क­वा­क्य­तेति पूर्वपक्षे गौण­वा­द्य­भि­प्रा­य­माह -
ततश्चेति ।
अस्तमयप्रतिषेधो मुख्यो­त्प­त्त्य­स­म्भवे लिङ्गम् । 'वायु­श्चा­न्त­रिक्षं चैतदमृतम्' इति तस्यैव लिङ्गस्याभ्यासः । 'वायुरेव व्यष्टिः समष्टिश्च' इति सर्वा­त्म­त्व­लि­ङ्गा­न्त­र­मा­दि­प­दार्थः । तथा संवर्गविद्यायां 'वायु­र्ह्ये­वै­ता­न्स­र्वा­न­ग्न्या­दी­न्सं­ह­रति' इति शब्द­मा­त्रे­णै­श्व­र्य­श्र­वणं लिङ्गान्तरं ग्राह्यम् । एतै­र्लि­ङ्गै­र्वा­यु­र­ना­द्य­नन्त इति प्रती­ते­रु­त्प­त्ति­र्गौ­णी­त्य­वि­रोधः श्रुत्योरिति प्राप्ते प्रति­पि­पा­द­यि­षि­त­प्र­ति­ज्ञा­श्रु­ते­र्ब­ली­य­स्त्वा­त्त­त्सा­ध­कानां तत्र तत्र वायू­त्प­त्ति­वा­क्यानां भूय­स्त्वा­दु­क्त­वि­भ­क्त­त्वा­दि­लि­ङ्गा­नु­ग्र­हाच्च मुख्यैव वायोरुत्पत्तिः, तथा चाकाशं वायुं च सृष्ट्वा तेजोऽसृजतेति श्रुत्यो­रे­क­वा­क्य­तया ब्रह्मणि समन्वयः ।

लिङ्गानि तूपा­स्य­वा­यु­स्ता­व­क­त्वा­दा­पे­क्षि­क­तया व्याख्येयानीति मुख्य­सि­द्धा­न्त­माह -
प्रति­ज्ञे­त्या­दिना ।
कृतं प्रति­वि­धा­न­मा­पे­क्षि­क­त्वेन समाधानं यस्य तत्तथा ।

अधि­क­र­णा­र­म्भ­मा­क्षि­प्यो­क्ता­म­धि­का­श­ङ्का­माह -
नन्वित्यादिना ।

'वायु­र्ह्ये­वै­ता­न्स­वा­र्न्सं­वृङ्क्ते' इत्या­दि­श­ब्द­मात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् । तामेव शङ्कामाह -
संवर्गेति ।
व्यष्टि­स­म­ष्ट्यु­पास्तिः 'वायुं दिशां वत्सं वेद' इत्यु­पा­स्ति­श्चा­दि­श­ब्दार्थः ॥८॥