अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

प्रथमाध्याये प्रथमः पादः

भाष्य­र­त्न­प्र­भा­व्याख्या श्रीरा­मा­न­न्द­य­ति­प्र­णीता ।
यमिह कारुणिकं शरणं गतोऽप्यरिसहोदर आप महत्पदम् ।
तमहमाशु हरिं परमाश्रये जन­क­जा­ङ्क­म­न­न्त­सु­खा­कृ­तिम् ॥ १ ॥
श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढु­ण्ढि­तु­ण्डा­सिना ।
वन्दे चर्म­क­पा­लि­को­प­क­र­णै­र्वै­रा­ग्य­सौ­ख्या­त्परं नास्तीति प्रदि­श­न्त­म­न्त­वि­धुरं श्रीकाशिकेशं शिवम् ॥ २ ॥
यत्कृ­पा­ल­व­मा­त्रेण मूको भवति पण्डितः ।
वेद­शा­स्त्र­श­रीरां तां वाणीं वीणाकरां भजे ॥ ३ ॥
कामा­क्षी­द­त्त­दु­ग्ध­प्र­चु­र­सु­र­नु­त­प्रा­ज्य­भो­ज्या­धि­पू­ज्य­श्री­गौ­री­ना­य­का­भि­त्प्र­क­ट­न­शि­व­रा­मा­र्य­ल­ब्धा­त्म­बोधैः ।
श्रीम­द्गो­पा­ल­गीर्भिः प्रक­टि­त­प­र­मा­द्वै­त­भा­सा­स्मि­ता­स्य­श्री­म­द्गो­वि­न्द­वा­णी­च­र­ण­क­म­लगो निर्वृतोऽहं यथालिः ॥ ४ ॥
श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि ।
श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जा­ल­ब­न्ध­च्छि­द­म­भ्यु­पा­यम् ॥ ५ ॥
विस्तृ­त­ग्र­न्थ­वी­क्षा­या­म­लसं यस्य मानसम् ।
व्याख्या तदर्थमारब्धा भाष्य­र­त्न­प्र­भा­भिधा ॥ ६ ॥
श्रीमच्छारीरकं भाष्यं प्राप्य वाक्शु­द्धि­मा­प्नु­यात् ।
इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा ॥ ७ ॥
यद­ज्ञा­न­स­मु­द्भू­त­मि­न्द्र­जा­ल­मिदं जगत् ।
सत्य­ज्ञा­न­सु­खा­नन्तं तदहं ब्रह्म निर्भयम् ॥ ८ ॥
इह खलु ‘स्वाध्या­योऽ­ध्ये­तव्यः’(श॰ब्रा॰ ११-५७) इति नित्या­ध्य­य­न­वि­धि­ना­धी­त­सा­ङ्ग­स्वा­ध्याये ‘तद्वि­जि­ज्ञा­सस्व’(तै.उ. ३ । १ । १) , ’सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा.उ. ८ । ७ । १) , ’आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’(बृ.उ. २ । ४ । ५) इति श्रव­ण­वि­धि­रु­प­ल­भ्यते । तस्यार्थः अमृ­त­त्व­का­मे­ना­द्वै­ता­त्म­वि­चार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन निय­म­वि­धि­ना­र्था­द्भि­न्ना­त्म­शा­स्त्र­प्र­वृत्तिः, वैदिकानां पुरा­णा­दि­प्रा­धान्यं वा निरस्यत इति वस्तुगतिः । तत्र कश्चिदिह जन्मनि जन्मान्तरे वानु­ष्टि­त­य­ज्ञा­दि­भि­र्नि­ता­न्त­वि­म­ल­स्वा­न्तोऽस्य श्रवणविधेः को विषयः, किं फलम् , कोऽधिकारी, कः सम्बन्ध इति जिज्ञासते । तं जिज्ञा­सु­मु­प­ल­भ­मानो भग­वा­न्बा­द­रा­य­ण­स्त­द­नु­ब­न्ध­च­तु­ष्टयं श्रव­णा­त्म­क­शा­स्त्रा­र­म्भ­प्र­यो­जकं न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू. १ । १ । १)‘अथातो ब्रह्मजिज्ञासा’ इति ॥ नन्वनुबन्धजातं विधि­स­न्नि­हि­ता­र्थ­वा­द­वा­क्यै­रेव ज्ञातुं शक्यम् । तथाहि - ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८ । १ । ६) इति श्रुत्या ‘यत्कृतकं तदनित्यम्’ इति न्यायवत्या ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) ‘यो वै भूमा तदमृतम्’(छा.उ. ७ । २४ । १) ‘अतोऽ­न्य­दा­र्तम्’(बृ॰उ॰ ३-४-२) इत्यादि श्रुत्या च भूमात्मा नित्य­स्त­तोऽ­न्य­द­नि­त्य­म­ज्ञा­न­स्व­रू­प­मिति विवेको लभ्यते । कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिलोकः - भोग्य इत्यर्थः । विप­श्चि­न्नि­त्य­ज्ञा­न­स्व­रूपः । ‘परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन’(मु.उ. १ । २ । १२) , ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’(बृ. उ. २ । ४ । ५) इत्या­दि­श्रु­त्या­ना­त्म­मात्रे देहे­न्द्रि­या­दि­स­क­ल­प­दा­र्थ­जाते वैराग्यं लभ्यते । परी­क्ष्या­नि­त्य­त्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नु­या­दि­त्यर्थः । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वा­त्म­न्ये­वा­त्मानं पश्येत्’(बृ.उ. ४ । ४ । २३) इति श्रुत्या शमादिषट्कं लभ्यते । ‘समाहितो भूत्वा’ इति काण्वपाठः । उपरतिः सन्न्यासः । ‘न स पुनरावर्तते’(कालाग्निरु० २) इति स्वय­ञ्ज्यो­ति­रा­न­न्दा­त्म­क­मो­क्षस्य नित्य­त्व­श्रुत्या मुमुक्षा लभ्यते । तथा च विवे­का­दि­वि­शे­ष­ण­वा­न­धि­का­रीति ज्ञातुं शक्यम् । यथा ‘य एता रात्रीरुपयन्ति’ इति रात्रिसत्रविधौ ‘प्रति­ति­ष्ठन्ति’ इत्य­र्थ­वा­द­स्थ­प्र­ति­ष्ठा­का­म­स्त­द्वत् तथा ‘श्रोतव्यः’(बृ.उ. २ । ४ । ५) इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम् , ‘आत्मा द्रष्टव्यः’ इत्य­द्वै­ता­त्म­द­र्श­न­मु­द्दिश्य ‘श्रोतव्यः’ इति विचारविधानात् । न हि विचारः साक्षा­द्द­र्श­न­हेतुः, अप्रमाणत्वात् , अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ‘तं त्वौपनिषदंं पुरुषम्’, ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः’(मु.उ. ३ । २ । ६) इति श्रुतेः । वेदान्तानां च प्रत्य­ग्ब्र­ह्मैक्यं विषयः, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) , ‘अहं ब्रह्मास्मि’(बृ.उ. १ । ४ । १०) इति श्रुतेः । एवं विचारविधेः फलमपि ज्ञानद्वारा मुक्तिः, ‘तरति शोकमात्मवित्’(छा.उ. ७ । १ । ३) , ‘ब्रह्म­वि­द्ब्र­ह्मैव भवति’(मु.उ. ३ । २ । ९) इत्यादिश्रुतेः । तथा सम्ब­न्धोऽ­प्य­धि­का­रिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोग्यं सुबोधः । तस्मादिदं सूत्रं व्यर्थमिति चेत् । न । तासा­म­धि­का­र्या­दि­श्रु­तीनां स्वार्थे तात्प­र्य­नि­र्णा­य­क­न्या­य­सू­त्रा­भावे किं विवे­का­दि­वि­शे­ष­ण­वा­न­धि­कारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गा­दि­व­ल्लो­का­न्त­रम् , आत्मस्वरूपा वेति संशयानिवृत्तेः । तस्मा­दा­ग­म­वा­क्यै­रा­पा­ततः प्रति­प­न्ना­धि­का­र्या­दि­नि­र्ण­या­र्थ­मिदं सूत्रमावश्यकम् । तदुक्तं प्रका­शा­त्म­श्री­च­रणैः - ‘अधि­का­र्या­दी­ना­मा­ग­मि­क­त्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्’ इति । येषां मते श्रवणे विधिर्नास्ति तेषा­म­वि­हि­त­श्र­व­णेऽ­धि­का­र्या­दि­नि­र्ण­या­न­पे­क्ष­णा­त्सूत्रं व्यर्थ­मि­त्या­प­त­ती­त्यलं प्रसङ्गेन ॥ तथा चास्य सूत्रस्य श्रव­ण­वि­ध्य­पे­क्षि­ता­धि­का­र्या­दि­श्रु­तिभिः स्वार्थ­नि­र्ण­या­यो­त्था­पि­त­त्वा­द्धे­तु­हे­तु­म­द्भावः श्रुतिसङ्गतिः, शास्त्रा­र­म्भ­हे­त्व­नु­ब­न्ध­नि­र्णा­य­क­त्वे­नो­पो­द्घा­त­त्वा­च्छा­स्त्रादौ सङ्गतिः, अधि­का­र्या­दि­श्रु­तीनां स्वार्थे समन्वयोक्तेः सम­न्व­या­ध्या­य­स­ङ्गतिः, ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’(छा.उ. ६ । ८ । ७) इत्या­दि­श्रु­तीनां सर्वा­त्म­त्वा­दि­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानां विषयादौ समन्वयोक्तेः पादसङ्गतिः, एवं सर्वसूत्राणां श्रुत्य­र्थ­नि­र्णा­य­क­त्वा­च्छ्रु­ति­स­ङ्गतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया । प्रमेयं च कृत्स्न­शा­स्त्रस्य ब्रह्म । अध्यायानां तु सम­न्व­या­वि­रो­ध­सा­ध­न­फ­लानि । तत्र प्रथमपादस्य स्पष्ट­ब्र­ह्म­लि­ङ्गानां श्रुतीनां समन्वयः प्रमेयः । द्विती­य­तृ­ती­य­यो­र­स्प­ष्ट­ब्र­ह्म­लि­ङ्गा­नाम् । चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथ­म्या­न्ना­धि­क­र­ण­स­ङ्ग­ति­र­पे­क्षिता ॥ अथा­धि­क­र­ण­मा­र­च्यते - ‘श्रोतव्यः’ इति विहि­त­श्र­व­णा­त्मकं वेदा­न्त­मी­मां­सा­शास्त्रं विषयः । तत्किमारब्धव्यं न वेति विष­य­प्र­यो­ज­न­स­म्भ­वा­स­म्भ­वाभ्यां संशयः । तत्र नाहं ब्रह्मेति भेद­ग्रा­हि­प्र­त्य­क्षेण कर्तृ­त्वा­क­र्तृ­त्वा­दि­वि­रु­द्ध­ध­र्म­व­त्त्व­लि­ङ्ग­का­नु­मा­नेन च विरोधेन ब्रह्मा­त्म­नो­रै­क्यस्य विष­य­स्या­स­म्भ­वात् , सत्यबन्धस्य ज्ञाना­न्नि­वृ­त्ति­रू­प­फ­ला­स­म्भ­वा­न्ना­र­म्भ­णी­य­मिति प्राप्ते सिद्धान्तः ‘अथातो ब्रह्मजिज्ञासा’ इति । अत्र श्रव­ण­वि­धि­स­मा­ना­र्थ­त्वाय ‘कर्तव्या’ इति पद­म­ध्या­ह­र्त­व्यम् । अध्याहृतं च भाष्यकृता ‘ब्रह्मजिज्ञासा कर्तव्या’ इति । तत्र प्रकृ­ति­प्र­त्य­या­र्थ­यो­र्ज्ञा­ने­च्छयोः कर्त­व्य­त्वा­न­न्व­या­त्प्र­कृत्या फलीभूतं ज्ञान­म­ज­ह­ल्ल­क्ष­ण­यो­च्यते । प्रत्य­ये­ने­च्छा­साध्यो विचारो जहल्लक्षणया । तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोऽर्थः सम्पद्यते । तत्र ज्ञानस्य स्वतः­फ­ल­त्वा­यो­गा­त्प्र­मा­तृ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­त्म­का­न­र्थ­नि­व­र्त­क­त्वे­नैव फलत्वं वक्तव्यम् । तत्रानर्थस्य सत्यत्वे ज्ञान­मा­त्रा­न्नि­वृ­त्त्य­यो­गा­द­ध्य­स्तत्वं वक्तव्यमिति बन्ध­स्या­ध्य­स्त­त्व­म­र्था­त्सू­चि­तम् । तच्च शास्त्रस्य विष­य­प्र­यो­ज­न­व­त्त्व­सि­द्धि­हेतुः । तथाहि शास्त्र­मा­र­ब्ध­व्यम् , विष­य­प्र­यो­ज­न­व­त्त्वात् , भोजनादिवत् । शास्त्रं प्रयोजनवत् , बन्ध­नि­व­र्त­क­ज्ञा­न­हे­तु­त्वात् , रज्जु­रि­य­मि­त्या­दि­वा­क्य­वत् । बन्धो ज्ञान­नि­व­र्त्योऽ­ध्य­स्त­त्वात् , रज्जुसर्पवत् । इति प्रयोजनसिद्धिः । एव­म­र्था­द्ब्र­ह्म­ज्ञा­ना­ज्जी­व­ग­ता­न­र्थ­भ्र­म­नि­वृत्तिं फलं सूत्रयन् जीव­ब्र­ह्म­णो­रैक्यं विष­य­म­प्य­र्था­त्सू­च­यति, अन्य­ज्ञा­ना­द­न्यत्र भ्रमानिवृत्तेः । जीवो ब्रह्माभिन्नः, तज्ज्ञा­न­नि­व­र्त्या­ध्या­सा­श्र­य­त्वात् । यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विष­य­सि­द्धि­हे­तु­र­ध्यासः । इत्येवं विष­य­प्र­यो­ज­न­व­त्त्वा­च्छा­स्त्र­मा­र­म्भ­णी­य­मिति। । अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञाना­द­नि­वृ­त्ते­रु­पा­या­न्त­र­साध्या मुक्तिरिति फलम् । सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः । इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचा­र­क­र्त­व्य­ता­रू­प­श्रौ­ता­र्था­न्य­था­नु­प­प­त्त्या­र्था­त्सू­त्रितं विष­य­प्र­यो­ज­न­व­त्व­मु­पो­द्धा­त­त्वा­त्त­त्सि­द्धि­हे­त्व­ध्या­सा­क्षेपसमा­धा­न­भा­ष्याभ्यां प्रथमं वर्णयति -
युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति ।
एतेन सूत्रा­र्था­स्प­र्शि­त्वा­द­ध्या­स­ग्रन्थो न भाष्यमिति निरस्तम् , आर्थि­का­र्थ­स्प­र्शि­त्वात् ॥ यत्तु मङ्ग­ला­च­र­णा­भा­वा­द­व्या­ख्ये­य­मिदं भाष्यमिति, तन्न । ‘सुत­रा­मि­त­रे­त­र­भा­वा­नु­प­पत्तिः’ इत्य­न्त­भा­ष्य­र­च­नार्थं तदर्थस्य सर्वो­प­प्ल­व­र­हि­तस्य विज्ञा­न­घ­न­प्र­त्य­ग­र्थस्य तत्त्वस्य स्मृतत्वात् । अतो निर्दोषत्वादिदं भाष्यं व्याख्येयम् ॥

लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रज­त­मि­त्य­धि­ष्ठा­न­सा­मा­न्या­रो­प्य­वि­शे­ष­यो­रै­क्य­प्र­मा­हि­त­सं­स्का­र­जन्यो दृष्ट इत्य­त्रा­प्या­त्म­न्य­ना­त्मा­ह­ङ्का­रा­ध्यासे पूर्वप्रमा वाच्या, सा चात्मा­ना­त्म­नो­र्वा­स्त­वै­क्य­म­पे­क्षते, न हि तदस्ति । तथाहि आत्मा­ना­त्मा­ना­वै­क्य­शून्यौ, पर­स्प­रै­क्या­यो­ग्य­त्वात् , तमःप्रकाशवत् । इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति -
युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति ।
न च ‘प्रत्य­यो­त्त­र­प­द­योश्च’(पा॰सू॰ ७-२-९८) इति सूत्रेण ‘प्रत्यये उत्तरपदे च परतो युष्म­द­स्म­दो­र्म­प­र्य­न्तस्य त्वमादेशौ स्तः’ इति विधानात् , त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ‘त्वन्म­त्प्र­त्य­य­गो­च­रयोः’ इति स्यादिति वाच्यम् । ‘त्वमावेकवचने’(पा॰सू॰ ७-२-९७) इत्ये­क­व­च­ना­धि­का­रात् । अत्र च युष्म­द­स्म­दो­रे­कार्थवाचि­त्वा­भा­वा­द­ना­त्मनां युष्मदर्थानां बहु­त्वा­द­स्म­द­र्थ­चै­त­न्य­स्या­प्यु­पा­धितो बहुत्वात् ॥ नन्वेवं सति कथमत्र भाष्ये विग्रहः । न च यूयमिति प्रत्ययो युष्म­त्प्र­त्ययः, वयमिति प्रत्य­योऽ­स्म­त्प्र­त्य­य­स्त­द्गो­च­र­यो­रिति विग्रह इति वाच्यम् , शब्द­सा­धु­त्वेऽ­प्य­र्था­सा­धु­त्वात् । न ह्यह­ङ्का­रा­द्य­ना­त्मनो यूयमिति प्रत्य­य­वि­ष­य­त्व­म­स्तीति चेत् , न । गोचरपदस्य योग्यतापरत्वात् । चिदात्मा ताव­द­स्म­त्प्र­त्य­य­योग्यः, तत्प्र­यु­क्त­सं­श­या­दि­नि­वृ­त्ति­फ­ल­भा­क्त्वात् , ‘न ताव­द­य­मे­का­न्ते­ना­वि­षयः, अस्म­त्प्र­त्य­य­वि­ष­य­त्वात्’ इति भाष्योक्तेश्च । यद्य­प्य­ह­ङ्का­रा­दि­रपि तद्योग्यस्तथापि चिदात्मनः सका­शा­द­त्य­न्त­भे­द­सि­द्ध्यर्थं युष्म­त्प्र­त्य­य­योग्य इत्युच्यते ॥ आश्र­म­श्री­च­र­णास्तु टीका­यो­ज­ना­या­मे­व­माहुः ‘सम्बोध्यचेतनो युष्म­त्प­द­वाच्यः, अह­ङ्का­रा­दि­वि­शि­ष्ट­चे­त­नोऽ­स्म­त्प­द­वाच्यः, तथा च युष्मदस्मदोः स्वार्थे प्रयु­ज्य­मा­न­यो­रेव त्वमादेशनियमो न लाक्षणिकयोः, ‘युष्मदस्मदोः षष्ठी­च­तु­र्थी­द्वि­ती­या­स्थ­यो­र्वा­नावौ’(पा०सू० ८-१-२०) इति सूत्रा­सा­ङ्ग­त्य­प्र­स­ड्गात् । अत्र शब्दलक्षकयोरिव चिन्मा­त्र­ज­ड­मा­त्र­ल­क्ष­क­यो­रपि न त्वमादेशो लक्ष­क­त्वा­वि­शे­षात्’ इति । यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्म­च्छ­ब्द­ज­न्य­प्र­त्य­य­योग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्म­च्छ­ब्द­ज­न्य­प्र­त्य­य­योग्यः प्रत्यगात्मा । तथा च लक्ष्य­ता­व­च्छे­द­क­तया शब्दोऽपि बोध्यत इति न त्वमादेशः । न च परा­क्त्व­प्र­त्य­क्त्व­यो­रेव लक्ष्य­ता­व­च्छे­द­क­त्वम् , न शब्द­यो­ग्य­त्वां­शस्य, गौरवादिति वाच्यम् । परा­क्प्र­ती­चो­र्वि­रो­ध­स्फु­र­णार्थं विरु­द्ध­श­ब्द­यो­ग्य­त्व­स्यापि वक्तव्यत्वात् । अत एवे­द­म­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति वक्त­व्येऽ­पी­दं­श­ब्दोऽ­स्म­दर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयो­ग­द­र्श­ना­न्ना­स्म­च्छ­ब्द­वि­रो­धीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः । एतेन चेत­न­वा­चि­त्वा­द­स्म­च्छब्दः पूर्वं प्रयोक्तव्यः ‘अभ्यर्हितं पूर्व’ इति न्यायात् , ‘त्यदादीनि सर्वैर्नित्यम्’(पा०सू० १-२-७२) इति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् । ‘युष्मदस्मदोः’ इति सूत्र इवात्रापि पूर्व­नि­पा­तै­क­शे­ष­यो­र­प्राप्तेः, एकशेषे विव­क्षि­त­वि­रो­धा­स्फू­र्तेश्च । वृद्धास्तु ‘युष्म­द­र्था­द­ना­त्मनो निष्कृष्य शुद्धस्य चिद्धा­तो­र­ध्या­रो­पा­प­वा­द­न्या­येन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् ’ इत्याहुः । तत्र युष्म­द­स्म­त्प­दाभ्यां परा­क्प्र­त्य­क्त्वे­ना­त्मा­ना­त्म­नो­र्व­स्तुतो विरोध उक्तः । प्रत्ययपदेन प्रतीतितो विरोध उक्तः । प्रतीयत इति प्रत्य­योऽ­ह­ङ्का­रा­दि­र­नात्मा दृश्यतया भाति । आत्मा तु प्रती­ति­त्वा­त्प्र­त्ययः स्वप्रकाशतया भाति । गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदर्थः प्रत्य­गा­त्म­ति­र­स्का­रेण कर्ता­ह­मि­त्या­दि­व्य­व­हा­र­गो­चरः, अस्म­द­र्थ­स्त्व­ना­त्म­प्र­वि­ला­पेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः । युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्म­द­स्म­त्प्र­त्य­य­गो­चरौ, तयोस्त्रिधा विरु­द्ध­स्व­भा­व­यो­रि­त­रे­त­र­भा­वोऽ­त्य­न्ता­भे­द­स्ता­दात्म्यं वा तदनुपपत्तौ सिद्धा­या­मि­त्य­न्वयः ।

ऐक्यासम्भवेऽपि शुक्लो घट इति­व­त्ता­दात्म्यं किं न स्यादित्यत आह -
विषयविषयिणोरिति ।
चिज्ज­ड­यो­र्वि­ष­य­वि­ष­यि­त्वा­द्दी­प­घ­ट­यो­रिव न तादात्म्यमिति भावः ।

युष्मदस्मदी परा­प्र­त्य­ग्व­स्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः । अत्र प्रत्य­य­गो­च­र­प­दा­भ्या­मा­त्मा­ना­त्मनोः प्रत्य­क्प­रा­ग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह -
विषयविषयिणोरिति ।
अनात्मनो ग्राह्य­त्वा­द­चि­त्त्वम् , आत्मनस्तु ग्राह­क­त्वा­च्चित्त्वं वाच्यम् । अचित्त्वे स्वस्य स्वेन ग्रहस्य कर्म­क­र्तृ­त्व­वि­रो­धे­ना­स­म्भ­वा­द­प्र­त्य­क्ष­त्वा­प­त्ते­रि­त्यर्थः । यथेष्टं वा हेतुहेतुमद्भावः ।

नन्वे­व­मा­त्मा­ना­त्मनोः परा­क्प्र­त्य­क्त्वेन, चिदचित्त्वेन, ग्राह्य­ग्रा­ह­क­त्वेन च विरो­धा­त्त­मः­प्र­का­श­व­दै­क्यस्य तादात्म्यस्य वानुपपत्तौ सत्याम् , तत्प्र­मि­त्य­भा­वे­ना­ध्या­सा­भा­वेऽपि तद्धर्माणां चैत­न्य­सु­ख­जा­ड्य­दुः­खा­दीनां विनि­म­ये­ना­ध्या­सोऽ­स्त्वि­त्यत आह -
तद्धर्माणामपीति ।
तयो­रा­त्मा­ना­त्म­नो­र्ध­र्मा­स्त­द्ध­र्मा­स्ते­षा­म­पी­त­रे­त­र­भा­वा­नु­प­पत्तिः । इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संस­र्ग­स्त­स्या­नु­प­प­त्ति­रि­त्यर्थः । न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति । स्फटिके लोहि­त­व­स्तु­सा­न्नि­ध्या­ल्लौ­हि­त्य­ध­र्म­सं­सर्गः ।

अस­ङ्गा­त्म­ध­र्मिणः केना­प्य­सं­स­र्गा­द्ध­र्मि­सं­स­र्ग­पू­र्वको धर्मसंसर्गः कुतस्त्य इत्य­भि­प्रे­त्योक्तं -
सुतरामिति ।

नन्वा­त्मा­ना­त्म­नो­स्ता­दा­त्म्यस्य तद्ध­र्म­सं­स­र्गस्य चाभा­वेऽ­प्य­ध्यासः किं न स्यादित्यत आह -
इत्यत इति ।
इत्युक्तरीत्या तादा­त्म्या­द्य­भा­वेन तत्प्रमाया अभावादतः प्रमा­ज­न्य­सं­स्का­र­स्या­ध्या­स­हे­तो­र­भा­वात् ‘अध्यासो मिथ्येति भवितुं युक्तम्’ इत्यन्वयः । मिथ्याशब्दो द्व्यर्थः अपह्नववचनः, अनि­र्व­च­नी­य­ता­व­च­न­श्चेति । अत्र चापह्नवार्थः ।

ननु कुत्र कस्या­ध्या­सोऽ­प­ह्नू­यत इत्याशङ्क्य, आत्म­न्य­ना­त्म­त­द्ध­र्मा­णा­म­ना­त्म­न्या­त्म­त­द्ध­र्मा­णा­म­ध्यासो निरस्यत इत्याह -
अस्म­त्प्र­त्य­य­गो­चर इत्यादिना ।

अह­मि­ति­प्र­त्य­य­यो­ग्यत्वं बुद्ध्या­दे­र­प्य­स्तीति मत्वा तत आत्मानं विवेचयति -
विषयिणीति ।
बुद्ध्या­दि­सा­क्षि­णी­त्यर्थः ।

साक्षित्वे हेतुः -
चिदात्मक इति ।
अहमिति भासमाने चिदं­शा­त्म­नी­त्यर्थः ।

युष्म­त्प्र­त्य­य­गो­च­र­स्येति ।
त्वङ्का­र­यो­ग्यस्य । इदमर्थस्येति यावत् ।

नन्वहमिति भास­मा­न­बु­द्ध्यादेः कथ­मि­द­म­र्थ­त्व­मि­त्यत आह -
विषयस्येति ।
साक्षि­भा­स्य­स्ये­त्यर्थः । साक्षि­भा­स्य­त्व­रू­प­ल­क्ष­ण­यो­गा­द्बु­द्ध्या­दे­र्घ­टा­दि­व­दि­द­म­र्थत्वं न प्रतिभासत इति भावः । अथवा यदात्मनो मुख्यं सर्वा­न्त­र­त्व­रूपं प्रत्यक्त्वं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम् , अहमिति प्रतीयमानत्वात् ,

अह­ङ्का­र­व­दि­त्या­श­ङ्क्याह -
अस्म­त्प्र­त्य­य­गो­चर इति ।
अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मि­न्नि­त्यर्थः । अहं­वृ­त्ति­व्य­ङ्ग्य­स्फु­र­णत्वं स्फुरणविषयत्वं वा हेतुः । आद्ये दृष्टान्ते हेत्वसिद्धिः । द्वितीये तु पक्षे तद­सि­द्धि­रि­त्या­त्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः ।

ननु यदात्मनो विषयित्वं तदसिद्धम् , अनुभवामीति शब्दवत्वात् , अहङ्कारवदित्यत आह -
विषयिणीति ।
वाच्यत्वं लक्ष्यत्वं वा हेतुः । नाद्यः, पक्षे तदसिद्धेः । नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः ।

देहं जानामीति देहा­ह­ङ्का­र­यो­र्वि­ष­य­वि­ष­यि­त्वेऽपि मनु­ष्योऽ­ह­मि­त्य­भे­दा­ध्या­स­व­दा­त्मा­ह­ङ्का­र­यो­र­प्य­भे­दा­ध्यासः स्यादित्यत आह -
चिदात्मक इति ।
तयो­र्जा­ड्या­ल्प­त्वाभ्यां सादृ­श्या­द­ध्या­सेऽपि चिदा­त्म­न्य­न­व­च्छिन्ने जडा­ल्पा­ह­ङ्का­रा­दे­र्ना­ध्यास इति भावः ।

अहमिति भास्य­त्वा­दा­त्म­व­द­ह­ङ्का­र­स्यापि प्रत्य­क्त्वा­दिकं मुख्यमेव, ततः पूर्वो­क्त­प­रा­क्त्वा­द्य­सि­द्धि­रि­त्या­श­ङ्क्याह -
युष्मदिति ।
अहं­वृ­त्ति­भा­स्य­त्व­म­ह­ङ्कारे नास्ति कर्तृ­क­र्म­त्व­वि­रो­धात् , चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः । अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वेऽपि पराक्त्वादिकं मुख्यमेवेति भावः । युष्म­त्प­रा­क्त­च्चासौ प्रतीयत इति प्रत्ययश्चासौ कर्तृ­त्वा­दि­व्य­व­हा­र­गो­च­रश्च तस्येति विग्रहः ।

तस्य हेयत्वार्थमाह -
विषयस्येति ।
षिञ् बन्धने । विसिनोति बध्नाति इति विष­य­स्त­स्ये­त्यर्थः ।

आत्म­न्य­ना­त्म­त­द्ध­र्मा­ध्यासो मिथ्या भवतु, अना­त्म­न्या­त्म­त­द्ध­र्मा­ध्यासः किं न स्यात् , अहं स्फुरामि सुखी­त्या­द्य­नु­भ­वा­दि­त्या­श­ङ्क्याह -
तद्विपर्ययेणेति ।
तस्मादनात्मनो विपर्ययो विरु­द्ध­स्व­भा­व­श्चै­त­न्यम् । इत्थम्भावे तृतीया । चैतन्यात्मना विष­यि­ण­स्त­द्ध­र्माणां च योऽहङ्कारादौ विषयेऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम् , अध्या­स­सा­म­ग्र्य­भा­वात् । न ह्यत्र पूर्व­प्र­मा­हि­त­सं­स्कारः सादृश्यमज्ञानं वास्ति । निर­व­य­व­नि­र्गु­ण­स्व­प्र­का­शा­त्मनि गुणा­व­य­व­सा­दृ­श्यस्य चाज्ञानस्य चायोगात् ॥

नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत् , उच्यते । बुद्धि­वृ­त्त्य­भि­व्यक्तं चैतन्यं ज्ञानम् , विष­या­भे­दे­ना­भि­व्यक्तं स्फुरणम् , शुभ­क­र्म­ज­न्य­वृ­त्ति­व्य­क्त­मा­नन्द इत्येवं वृत्त्यु­पा­धि­कृ­त­भे­दात् ज्ञाना­दी­ना­मा­त्म­ध­र्म­त्व­व्य­प­देशः । तदुक्तं टीकायां ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैत­न्य­त्वा­त्पृ­थ­गि­वा­व­भा­सन्ते’ इति । अतो निर्गु­ण­ब्र­ह्मा­त्म­त्व­मते, अहं करोमीति प्रतीतेरर्थस्य चाध्या­स­त्वा­यो­गा­त्प्र­मात्वं सत्यत्वं च अहं नर इति सामा­ना­धि­क­र­ण्यस्य गौणत्वमिति मतमास्थेयम् । तथा च बन्धस्य सत्यतया ज्ञाना­न्नि­वृ­त्ति­रू­प­फ­ला­स­म्भ­वा­द्ब­द्ध­मु­क्त­यो­र्जी­व­ब्र­ह्म­णो­रै­क्या­यो­गेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्व­प­क्ष­भा­ष्य­ता­त्प­र्यम् । युक्त­ग्र­ह­णा­त्पू­र्व­प­क्षस्य दुर्बलत्वं सूचयति । तथाहि किमध्यासस्य नास्ति­त्व­म­यु­क्त­त्वा­द­भा­नाद्वा कारणाभावाद्वा ? आद्य इष्ट इत्याह -
तथापीति ।
एतदनुरोधादादौ यद्यपीति पठितव्यम् । अध्या­स­स्या­स­ङ्ग­स्व­प्र­का­शा­त्म­न्य­यु­क्त­त्व­म­ल­ङ्कार इति भावः ।

न द्वितीय इत्याह -
अयमिति ।
अज्ञः कर्ता मनुष्योऽहमिति प्रत्य­क्षा­नु­भ­वा­द­ध्या­स­स्या­भा­न­म­सि­द्ध­मि­त्यर्थः । न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् । अपौरुषेयतया निर्दोषेण, उप­क्र­मा­दि­लि­ङ्गा­व­धृ­त­ता­त्प­र्येण च तत्व­म­स्या­दि­वा­क्ये­ना­क­र्तृ­त्व­ब्र­ह्म­त्व­बो­ध­ने­नास्य भ्रम­त्व­नि­श्च­यात् । न च ज्येष्ठ­प्र­त्य­क्ष­वि­रो­धा­दा­ग­म­ज्ञा­न­स्यैव बाध इति वाच्यम् , देहा­त्म­वा­द­प्र­स­ङ्गात् , मनुष्योऽहमिति प्रत्य­क्ष­वि­रो­धेन ‘अथायमशरीरः’(बृ॰उ॰ ४-४-७) इत्यादिश्रुत्या देहा­द­न्या­त्मा­सिद्धेः । तस्मादिदं रज­त­मि­ति­व­त्सा­मा­ना­धि­क­र­ण्य­प्र­त्य­क्षस्य भ्रम­त्व­श­ङ्का­क­ल­ङ्कि­तस्य नाग­मा­त्प्रा­ब­ल्य­मि­त्या­स्थे­यम् । किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्यु­प­जी­व्यत्वं वा ? आद्ये न प्राबल्यम् , ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् । न द्वितीयः । आग­म­ज्ञा­नो­त्पत्तौ प्रत्य­क्षा­दि­मू­ल­वृ­द्ध­व्य­व­हारे सङ्ग­ति­ग्र­ह­द्वारा, शब्दो­प­ल­ब्धि­द्वारा च प्रत्य­क्षा­दे­र्व्या­व­हा­रि­क­प्रा­मा­ण्य­स्यो­प­जी­व्य­त्वेऽपि तात्त्वि­क­प्रा­मा­ण्य­स्या­न­पे­क्षि­त­त्वात् , अन­पे­क्षि­तां­श­स्या­ग­मेन बाधसम्भवादिति । यत्तु क्षणिकयागस्य श्रुति­ब­ला­त्का­ला­न्त­र­भा­वि­फ­ल­हे­तु­त्व­वत् ‘तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः’(मु॰उ॰ ३-२-७) इति श्रुति­ब­ला­त्स­त्य­स्यापि ज्ञाना­न्नि­वृ­त्ति­स­म्भ­वा­द­ध्या­स­व­र्णनं व्यर्थमिति, तन्न । ज्ञान­मा­त्र­नि­व­र्त्यस्य क्वापि सत्य­त्वा­द­र्श­नात् , सत्यस्य चात्मनो निवृ­त्त्य­द­र्श­नाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञाना­न्नि­वृ­त्ति­श्रु­ते­र्बो­ध­क­त्वा­यो­गात् । न च सेतु­द­र्श­ना­त्स­त्यस्य पापस्य नाश­द­र्श­ना­न्ना­यो­ग्य­ता­नि­श्चय इति वाच्यम् , तस्य श्रद्धा­नि­य­मा­दि­सा­पे­क्ष­ज्ञा­न­ना­श्य­त्वात् । बन्धस्य च ‘नान्यः पन्था’ इति श्रुत्या ज्ञान­मा­त्रा­न्नि­वृ­त्ति­प्र­तीतेः, अतः श्रुत­ज्ञा­न­नि­व­र्त्य­त्व­नि­र्वा­हा­र्थ­म­ध्य­स्तत्वं वर्णनियम् । किं च ज्ञानै­क­नि­व­र्त्यस्य किं नाम सत्यत्वम् , न ताव­द­ज्ञा­ना­ज­न्य­त्वम् । ‘मायां तु प्रकृतिम्’ इति श्रुति विरो­धा­न्मा­या­वि­द्य­यो­रै­क्यात् । नापि स्वाधिष्ठाने स्वाभा­व­शू­न्यत्वं ‘अस्थूलम्’ इत्या­दि­नि­षे­ध­श्रु­ति­वि­रो­धात् । नापि ब्रह्म­व­द्बा­धा­यो­ग्य­त्वम् , ज्ञाना­न्नि­वृ­त्ति­श्रु­ति­वि­रो­धात् । अथ व्यवहारकाले बाधशून्यत्वम् , तर्हि व्यावहारिकमेव सत्य­त्व­मि­त्या­ग­त­म­ध्य­स्त­त्वम् । तच्च श्रुत्यर्थे योग्यता ज्ञानार्थं वर्णनीयमेव, याग­स्या­पू­र्व­द्वा­र­त्व­वत् । न च तदन्यत्वाधिकरणे तस्य वर्ण­ना­त्पौ­न­रु­क्त्यम् , तत्रो­क्ता­ध्या­स­स्यैव प्रवृ­त्त्य­ङ्ग­वि­ष­या­दि­सि­द्ध्य­र्थ­मादौ स्मार्य­मा­ण­त्वा­दिति दिक् ॥

अध्यासं द्वेधा दर्शयति -
लोकव्यवहार इति ।
लोक्यते मनु­ष्योऽ­ह­मि­त्य­भि­म­न्यत इति लोकोऽ­र्था­ध्यासः, तद्विषयो व्यवहारोऽभिमान इति ज्ञानाध्यासो दर्शितः ।

द्विवि­धा­ध्या­स­स्व­रू­प­ल­क्ष­ण­माह -
अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन ।
जाड्य­चै­त­न्या­दि­ध­र्माणां धर्मि­णा­व­ह­ङ्का­रा­त्मानौ, तयोरत्यन्तं भिन्न­यो­रि­त­रे­त­र­भे­दा­ग्र­हे­णा­न्यो­न्य­स्मिन् अन्यो­न्य­ता­दा­त्म्य­म­न्यो­न्य­ध­र्मांश्च व्यत्या­से­ना­ध्यस्य लोकव्यवहार इति योजना । अतः सोऽयमिति प्रमाया नाध्यासत्वम् , तदिदमर्थयोः कालभेदेन कल्पि­त­भे­देऽ­प्य­त्य­न्त­भे­दा­भा­वा­दिति वक्तु­म­त्य­न्ते­त्यु­क्तम् । न च धर्मि­ता­दा­त्म्या­ध्यासे धर्मा­ध्या­स­सिद्धेः ‘धर्मांश्च’ इति व्यर्थमिति वाच्यम् , अन्ध­त्वा­दी­ना­मि­न्द्रि­य­ध­र्माणां धर्म्य­ध्या­सा­स्फु­ट­त्वेऽ­प्य­न्धोऽ­ह­मिति स्फुटोऽध्यास इति ज्ञाप­ना­र्थ­त्वात् ।

नन्वा­त्मा­ना­त्मनोः पर­स्प­रा­ध्य­स्तत्वे शून्यवादः स्यादि­त्या­श­ङ्क्याह -
सत्यानृते मिथुनीकृत्येति ।
सत्यमनिदं चैतन्यं तस्यानात्मनि संस­र्ग­मा­त्रा­ध्यासो न स्वरूपस्य । अनृतं युष्मदर्थः तस्य स्वरू­प­तोऽ­प्य­ध्या­सा­त्त­यो­र्मि­थु­नी­क­र­ण­म­ध्यास इति न शून्यतेत्यर्थः ॥

नन्व­ध्या­स­मि­थु­नी­क­र­ण­लो­क­व्य­व­हा­र­श­ब्दा­ना­मे­का­र्थ­त्वेऽ­ध्यस्य मिथुुनीकृत्येति पूर्व­का­ल­त्व­वा­चि­क्त्वा­प्र­त्य­या­दे­शस्य ल्यपः कथं प्रयोग इति चेन्न, अध्या­स­व्य­क्ति­भे­दात् । तत्र पूर्व­पू­र्वा­ध्या­स­स्यो­त्त­रो­त्त­रा­ध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतु­त्व­द्यो­त­नार्थं ल्यपः प्रयोगः । तदेव स्पष्टयति -
नैसर्गिक इति ।
प्रत्यगात्मनि हेतु­हे­तु­म­द्भा­वे­ना­ध्या­स­प्र­वा­होऽ­ना­दि­रि­त्यर्थः । ननु प्रवा­ह­स्या­व­स्तु­त्वात् , अध्या­स­व्य­क्तीनां सादित्वात् , कथमनादित्वमिति चेत् । उच्यते अध्या­स­त्वा­व­च्छि­न्न­व्य­क्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽ­दि­का­ल­स्या­व­र्तनं कार्या­ना­दि­त्व­मि­त्य­ङ्गी­का­रात् । एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैस­र्गि­क­प­दे­नो­क्त­त्वात् । न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम् , लाघवेन पूर्वा­नु­भ­व­ज­न्य­सं­स्का­रस्य हेतुत्वात् । अतः पूर्वा­ध्या­स­जन्यः संस्कारोऽस्तीति सिद्धम् ।

अध्या­स­स्यो­पा­दा­न­माह -
मिथ्या­ज्ञा­न­नि­मित्त इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्नि­मि­त्त­मु­पा­दानं यस्य स तन्निमित्तः । तदुपादानक इत्यर्थः । अज्ञा­न­स्यो­पा­दा­न­त्वेऽपि संस्फु­र­दा­त्म­त­त्वा­व­र­क­तया दोष­त्वे­ना­ह­ङ्का­रा­ध्या­स­क­र्तु­री­श्व­र­स्यो­पा­धि­त्वेन संस्का­र­का­ल­क­र्मा­दि­नि­मि­त्त­प­रि­णा­मि­त्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् । स्वप्र­का­शा­त्म­न्य­सङ्गे कथमविद्यासङ्गः, संस्का­रा­दि­सा­म­ग्र्य­भा­वात् , इति शङ्कानिरासार्थं मिथ्यापदम् । प्रच­ण्ड­मा­र्त­ण्ड­म­ण्डले पेच­का­नु­भ­व­सि­द्धा­न्ध­का­र­वत् , अहमज्ञ इत्य­नु­भ­व­सि­द्ध­म­ज्ञानं दुरपह्नवम् , कल्पि­त­स्या­धि­ष्ठा­ना­स्प­र्शि­त्वात् , नित्य­स्व­रू­प­ज्ञा­न­स्या­वि­रो­धि­त्वा­च्चेति । यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् । मिथ्यात्वे सति साक्षा­ज्ज्ञा­न­नि­व­र्त्य­त्व­म­ज्ञा­नस्य लक्षणं मिथ्या­ज्ञा­न­प­दे­नो­क्तम् । ज्ञाने­ने­च्छा­प्रा­ग­भावः साक्षा­न्नि­व­र्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् । अज्ञा­न­नि­वृ­त्ति­द्वारा ज्ञान­नि­व­र्त्य­ब­न्धेऽ­ति­व्या­प्ति­नि­रा­साय साक्षादिति । अना­द्यु­पा­दा­नत्वे सति मिथ्यात्वं वा लक्षणम् । ब्रह्म­नि­रा­सार्थं मिथ्यात्वमिति । मृदा­दि­नि­रा­सा­र्थ­म­ना­दीति । अविद्यात्मनोः सम्ब­न्ध­नि­रा­सा­र्थ­मु­पा­दा­नत्वे सतीति ।

सम्प्रति अध्यासं द्रढयितुमभिलषति -
अहमिदं ममेदमिति ।
आध्या­त्मि­क­का­र्या­ध्या­से­ष्व­ह­मिति प्रथमोऽध्यासः । न चाधि­ष्ठा­ना­रो­प्यां­श­द्व­या­नु­प­ल­म्भात् नायमध्यास इति वाच्यम् , अयो दहतीतिवदहमुपलभ इति दृग्दृ­श्यां­श­यो­रु­प­ल­म्भात् । इदं पदेन भोग्यः सङ्घात उच्यते । अत्रा­ह­मि­द­मि­त्य­नेन मनुष्योऽहमिति तादा­त्म्या­ध्यासो दर्शितः । ममेदं शरीरमिति संसर्गाध्यासः ॥ ननु देहा­त्म­नो­स्ता­दा­त्म्य­मेव संसर्ग इति तयोः को भेद इति चेत् , सत्यम् । सत्तैक्ये सति मिथो भेद­स्ता­दा­त्म्यम् । तत्र मनु­ष्योऽ­ह­मि­त्यै­क्यां­श­भानं ममेदमिति भेदां­श­रू­प­सं­स­र्ग­भा­न­मिति भेदः । एवं साम­ग्री­स­त्त्वा­द­नु­भ­व­स­त्त्वा­द­ध्या­सोऽ­स्ती­त्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वा­त्शा­स्त्र­मा­र­म्भ­णी­य­मिति सिद्धा­न्त­भा­ष्य­ता­त्प­र्यम् ।

एवं च सूत्रे­णा­र्था­त्सू­चिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्ष­ण­स­म्भा­व­ना­प्र­माणैः साधयितुं लक्षणं पृच्छति -
आहेति ।
किंल­क्ष­ण­कोऽ­ध्यास इत्याह । पूर्व­वा­दी­त्यर्थः । अस्य शास्त्रस्य तत्त्व­नि­र्ण­य­प्र­धा­न­त्वेन वाद­क­था­त्व­द्यो­त­ना­र्थ­मा­हेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनः­प्र­त्य­गा­त्मनि’ इत्यतः प्राग­ध्या­स­ल­क्ष­ण­परं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमे­त­म­वि­द्या­ख्यम्" इत्यारभ्य "सर्व­लो­क­प्र­त्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः ।

लक्षणमाह -
उच्यते - स्मृतिरूप इति ।
अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्या­यो­ग्य­म­धि­क­रणं परत्रपदार्थः । अधि­क­र­ण­स्या­यो­ग्य­त्व­मा­रो­प्या­त्य­न्ता­भा­वत्वं तद्वत्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्य­न्ता­भा­व­वति अव­भा­स्य­त्व­म­ध्य­स्त­त्व­मि­त्यर्थः । इदं च साद्य­ना­द्य­ध्या­स­सा­धा­रणं लक्षणम् । संयो­गेऽ­ति­व्या­प्ति­नि­रा­सा­यै­का­व­च्छे­दे­नेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्य­न्ता­भा­व­व­त्य­व­भा­स्य­त्वेऽपि स्वात्य­न्ता­भा­व­यो­र्मू­ला­ग्रा­व­च्छे­द­क­भे­दा­न्ना­ति­व्याप्तिः । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽ­ति­व्या­प्ति­नि­रा­साय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रति­यो­गि­सं­स­र्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वा­व­च्छे­दे­ना­व­भा­स्य­ग­न्धेऽ­ति­व्या­प्ति­वा­र­णाय स्वात्य­न्ता­भा­व­व­तीति पदम् । शुक्ता­वि­द­न्त्वा­व­च्छे­देन रज­त­सं­स­र्ग­का­लेऽ­त्य­न्ता­भा­वोऽ­स्तीति नाव्याप्तिः ।

नन्वस्य लक्ष­ण­स्या­स­म्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्य­मा­ण­स­त्य­र­ज­त­स्यैव परत्र शुक्ता­व­व­भा­स्य­त्वे­ना­ध्य­स्त­त्वो­क्ति­रिति वाच्यम् , अन्य­था­ख्या­ति­प्र­स­ङ्गा­दि­त्यत आह -
स्मृतिरूप इति ।
स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्य­मा­णा­दा­रो­प्यस्य भेदात् , नान्य­था­ख्या­ति­रि­त्युक्तं भवति ।

सादृ­श्य­मु­प­पा­द­यति -
पूर्वदृष्टेति ।
दृष्टं दर्शनम् , संस्कारद्वारा पूर्व­द­र्श­ना­द­व­भा­स्यत इति पूर्व­दृ­ष्टा­व­भासः । तेन संस्का­र­ज­न्य­ज्ञा­न­वि­ष­यत्वं स्मर्य­मा­णा­रो­प्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्का­र­ज­न्य­त्वात् । न च संस्का­र­ज­न्य­त्वा­दा­रो­पस्य स्मृति­त्वा­प­त्ति­रिति वाच्यम् , दोष­स­म्प्र­यो­ग­ज­न्य­त्व­स्यापि विवक्षितत्वेन संस्का­र­मा­त्र­ज­न्य­त्वा­भा­वात् । अत्र सम्प्रयोगशब्देन अधि­ष्ठा­न­सा­मा­न्य­ज्ञा­न­मु­च्यते, अहङ्काराध्यासे इन्द्रि­य­स­म्प्र­यो­गा­ला­भात् । एवं च दोष­स­म्प्र­यो­ग­सं­स्का­र­ब­ला­च्छु­क्त्यादौ रज­त­मु­त्प­न्न­म­स्तीति पर­त्रा­व­भा­स्य­त्व­ल­क्ष­ण­मु­प­प­न्न­मिति स्मृति­रू­प­पू­र्व­दृ­ष्ट­प­दा­भ्या­मु­प­पा­दि­तम् । अन्ये तु ताभ्यां दोषा­दि­त्र­य­ज­न्यत्वं कार्या­ध्या­स­ल­क्ष­ण­मु­क्त­मि­त्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­यत्वं स्मृत्यारोपयोः प्रमा­णा­ज­न्य­त्वात् । पूर्व­दृ­ष्ट­प­द­त­ज्जा­ती­य­प­रम् , अभिनवरजतादेः पूर्व­दृ­ष्ट­त्वा­भा­वात् । तथा च प्रमा­णा­ज­न्य­ज्ञा­न­वि­ष­यत्वे सति पूर्व­दृ­ष्ट­जा­ती­यत्वं प्राती­ति­का­ध्या­स­ल­क्षणं ताभ्यामुक्तम् । पर­त्रा­व­भा­स­श­ब्दा­भ्या­म­ध्या­स­मा­त्र­ल­क्षणं व्याख्यातमेव । तत्र स्मर्य­मा­ण­ग­ङ्गादौ अभिनवघटे चाति­व्या­प्ति­नि­रा­साय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्व­द­र्श­ना­द­व­भा­स्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्व­द­र्श­ना­द­व­भास इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादि­वि­प्र­ति­पत्तेः कथ­मु­क्त­ल­क्ष­ण­सि­द्धि­रि­त्या­श­ङ्क्या­धि­ष्ठा­ना­रो­प्य­स्व­रू­प­वि­वा­देऽपि परत्र परावभास इति लक्षणे संवा­दा­द्यु­क्तिभिः सत्याधिष्ठाने मिथ्या­र्था­व­भा­स­सिद्धेः सर्व­त­न्त्र­सि­द्धान्त इदं लक्षणमिति मत्वा अन्य­था­त्म­ख्या­ति­वा­दि­नो­र्म­त­माह -
तं केचिदिति ।
केचि­द­न्य­था­ख्या­ति­वा­दि­नोऽ­न्यत्र शुक्त्या­दा­व­न्य­ध­र्मस्य स्वावयवधर्मस्य देशा­न्त­र­स्थ­रू­प्या­दे­र­ध्यास इति वदन्ति । आत्म­ख्या­ति­वा­दि­नस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -
केचिदिति ।
यत्र यस्याध्यासो लोक­सि­द्ध­स्त­यो­र­र्थ­यो­स्त­द्धि­योश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशि­ष्ट­व्य­व­हा­रा­न्य­था­नु­प­पत्त्या विशि­ष्ट­भ्रान्तेः स्वीकार्यत्वात् , परत्र परा­व­भा­स­स­म्म­ति­रिति भावः ।

शून्यमतमाह -
अन्ये त्विति ।
तस्यै­वा­धि­ष्ठा­नस्य शुक्त्या­दे­र्वि­प­री­त­ध­र्म­त्व­क­ल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रज­ता­दे­र­त्य­न्ता­सतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परा­व­भा­स­त्व­ल­क्ष­ण­सं­वा­द­माह -
सर्वथापि त्विति ।
अन्य­था­ख्या­ति­त्वा­दि­प्र­का­र­वि­वा­देऽ­प्य­ध्यासः परत्र परा­व­भा­स­त्व­ल­क्षणं न जहातीत्यर्थः । शुक्ता­व­प­रो­क्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वा­यो­गा­त्शू­न्यत्वे प्रत्य­क्ष­त्वा­यो­गात् , शुक्तौ सत्त्वे बाधा­यो­गा­त्मि­थ्या­त्व­मे­वेति भावः ।

आरो­प्य­मि­थ्यात्वे न युक्त्यपेक्षा, तस्या­नु­भ­व­सि­द्ध­त्वा­दि­त्याह -
तथा चेति ।
बाधा­न­न्त­र­का­ली­नोऽ­य­म­नु­भवः, तत्पूर्वं शुक्ति­का­त्व­ज्ञा­ना­यो­गात् , रजतस्य बाध­प्र­त्य­क्ष­सिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरु­पा­धि­केऽ­ह­ङ्का­रा­ध्यासे दृष्टा­न्त­मुक्त्वा ब्रह्म­जी­वा­वा­न्त­र­भे­द­स्या­वि­द्या­द्यु­पा­धि­क­स्या­ध्यासे दृष्टान्तमाह -
एक इति ।
द्विती­य­च­न्द्र­स­हि­त­व­देक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्ष­ण­प्र­क­र­णो­प­सं­हा­रार्थ इति शब्दः ।

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भ­व­ती­त्या­क्षि­पति -
कथं पुनरिति ।

यत्रा­प­रो­क्षा­ध्या­सा­धि­ष्ठा­नत्वं तत्रे­न्द्रि­य­सं­यु­क्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्याप­का­भा­वा­दा­त्म­नोऽ­धि­ष्ठा­नत्वं न सम्भ­व­ती­त्य­भि­प्रे­त्याह -
प्रत्यगात्मनीति ।
प्रतीचि पूर्ण इन्द्रि­या­ग्राह्ये विष­य­स्या­ह­ङ्का­रा­दे­स्त­द्ध­र्माणां चाध्यासः कथमित्यर्थः ।

उक्तव्याप्तिमाह -
सर्वो हीति ।
पुरोऽ­व­स्थि­त­त्व­मि­न्द्रि­य­सं­यु­क्त­त्वम् ।

नन्वा­त्म­नोऽ­प्य­धि­ष्ठा­न­त्वार्थं विष­य­त्वा­दि­क­म­स्त्वि­त्यत आह -
युष्मदिति ।
इदं­प्र­त्य­या­न­र्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्र­त्य­ध्या­स­लो­भेन विष­य­त्वा­ङ्गी­कारे श्रुति­सि­द्धा­न्त­यो­र्बाधः स्यादित्यर्थः ।

आत्म­न्य­ध्या­स­स­म्भा­वनां प्रतिजानीते -
उच्यत इति ।

अधि­ष्ठा­ना­रो­प्य­यो­रे­क­स्मिन् ज्ञाने भास­मा­न­त्व­मा­त्र­म­ध्या­स­व्या­प­कम् , तच्च भान­प्र­यु­क्त­सं­श­य­नि­वृ­त्त्या­दि­फ­ल­भा­क्त्वम् , तदेव भान­भि­न्न­त्व­घ­टितं विषयत्त्वम् , तन्न व्यापकम् , गौरवादिति मत्वाह -
न तावदिति ।
अयमात्मा नियमेनाविषयो न भवति ।

तत्र हेतुमाह -
अस्मदिति ।
अस्म­प्र­त्य­योऽ­ह­मि­त्य­ध्या­स­स्तत्र भास­मा­न­त्वा­दि­त्यर्थः । अस्म­द­र्थ­चि­दात्मा प्रति­बि­म्बि­त­त्वेन यत्र प्रतीयते सोऽस्म­त्प्र­त्य­योऽ­ह­ङ्का­र­स्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्त­रा­ध्या­सा­धि­ष्ठा­न­त्व­स­म्भ­वात् ॥

नन्व­ह­मि­त्य­ह­ङ्का­र­वि­ष­य­क­भा­न­रू­प­स्या­त्मनो भासमानत्वं कथम् , तद्विषयत्वं विना तत्फ­ल­भा­क्त्वा­यो­गा­दि­त्यत आह -
अप­रो­क्ष­त्वा­च्चेति ।
चशब्दः शङ्कानिरासार्थः । स्वप्र­का­श­त्वा­दि­त्यर्थः ।

स्वप्रकाशत्वं साधयति -
प्रत्यगिति ।
आबा­ल­प­ण्डि­त­मा­त्मनः संश­या­दि­शू­न्य­त्वेन प्रसिद्धेः स्वप्र­का­श­त्व­मि­त्यर्थः । अतः स्वप्रकाशत्वेन भास­मा­न­त्वा­दा­त्म­नोऽ­ध्या­सा­धि­ष्ठा­नत्वं सम्भवतीति भावः ।

यदु­क्त­म­प­रो­क्षा­ध्या­सा­धि­ष्ठा­न­त्व­स्ये­न्द्रि­य­सं­यु­क्त­तया ग्राह्यत्वं व्यापकमिति तत्राह -
न चायमिति ।

तत्र हेतुमाह -
अप्र­त्य­क्षेऽ­पीति ।
इन्द्रि­या­ग्रा­ह्येऽ­पी­त्यर्थः । बाला अविवेकिनः तल­मि­न्द्र­नी­ल­क­टा­ह­कल्पं नभो मलिनं पीत­मि­त्ये­व­म­प­रो­क्ष­म­ध्य­स्यन्ति, तत्रे­न्द्रि­य­ग्रा­ह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एते­ना­त्मा­ना­त्मनोः सादृ­श्या­भा­वा­न्ना­ध्यास इत्यपास्तम् , नील­न­भ­सो­स्त­द­भा­वेऽ­प्य­ध्या­स­द­र्श­नात् । सिद्धान्ते आलो­का­का­र­चा­क्षु­ष­वृ­त्त्य­भि­व्य­क्त­सा­क्षि­वे­द्यत्वं नभसि इति ज्ञेयम् ।

सम्भावनां निगमयति -
एवमिति ।

ननु ब्रह्म­ज्ञा­न­ना­श्य­त्वेन सूत्रि­ता­म­विद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह -
तमेतमिति ।
आक्षिप्तं समा­हि­त­मु­क्त­ल­क्ष­ण­ल­क्षि­त­म­ध्या­स­म­वि­द्या­का­र्य­त्वा­द­वि­द्येति मन्यन्त इत्यर्थः ।

विद्या­नि­व­र्त्य­त्वा­च्चा­स्या­वि­द्या­त्व­मि­त्याह -
तद्विवेकेनेति ।
अध्य­स्त­नि­षे­धे­ना­धि­ष्ठा­न­स्व­रू­प­नि­र्धा­रणं विद्या­म­ध्या­स­नि­व­र्ति­का­मा­हु­रि­त्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह -
तत्रेति ।
तस्मिन्नध्यासे उक्त­न्या­ये­ना­वि­द्या­त्मके सतीत्यर्थः । मूलाविद्यायाः सषु­प्ता­व­न­र्थ­त्वा­द­र्श­ना­त्का­र्या­त्मना तस्या अन­र्थ­त्व­ज्ञा­प­नार्थं तद्वर्णनमिति भावः । अध्य­स्त­कृ­त­गु­ण­दो­षा­भ्या­म­धि­ष्ठानं न लिप्यत इत्यक्षरार्थः ।

एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह -
तमेतमिति ।
तं वर्णितमेतं साक्षि­प्र­त्य­क्ष­सिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्ष­शा­स्त्री­य­श्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः |

तत्र विधिनिषेधपराणि कर्म­शा­स्त्रा­ण्यृ­ग्वे­दा­दीनि, विधि­नि­षे­ध­शू­न्य­प्र­त्य­ग्ब्र­ह्म­प­राणि मोक्षशास्त्राणि वेदा­न्त­वा­क्या­नीति विभागः । एवं व्यव­हा­र­हे­तु­त्वे­ना­ध्यासे प्रत्य­क्ष­सि­द्धेऽपि प्रमाणान्तरं पृच्छति -
कथं पुनरिति ।
अवि­द्या­वा­न­ह­मि­त्य­ध्या­स­वा­नात्मा प्रमाता स विषय आश्रयो येषां तानि अवि­द्या­व­द्वि­ष­या­णीति विग्रहः । तत्त­त्प्र­मे­य­व्य­व­हा­र­हे­तु­भू­तायाः प्रमाया अध्या­सा­त्म­क­प्र­मा­त्रा­श्रि­त­त्वा­त्प्र­मा­णा­ना­म­वि­द्या­व­द्वि­ष­यत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमा­णे­ना­वि­द्या­व­द्वि­ष­य­त्व­मिति योजना । यद्वाऽ­वि­द्या­व­द्वि­ष­याणि कथं प्रमाणानि स्युः, आश्र­य­दो­षा­द­प्रा­मा­ण्या­प­त्ते­रि­त्या­क्षेपः ।

तत्र प्रमाणप्रश्ने व्यव­हा­रा­र्था­प­त्तिम् , तल्लिङ्गानुमानं चाह -
उच्यते इत्यादिना तस्मादित्यन्तेन ।
देवदत्तकर्तृको व्यवहारः, तदी­य­दे­हा­दि­ष्व­हं­म­मा­ध्या­स­मूलः, तद­न्व­य­व्य­ति­रे­का­नु­सा­रि­त्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।

तत्र व्यतिरेकं दर्शयति -
देहेति ।
देवदत्तस्य सुषु­प्ता­व­ध्या­सा­भावे व्यवहाराभावो दृष्टः, जाग्र­त्स्व­प्न­यो­र­ध्यासे सति व्यवहार इत्यन्वयः स्फुट­त्वा­न्नोक्तः । अनेन लिङ्गेन कारणतयाध्यासः सिध्यति, व्यव­हा­र­रू­प­का­र्या­नु­प­पत्त्या वेति भावः ।

ननु मनु­ष्य­त्वा­दि­जा­ति­मति देहेऽ­ह­मि­त्या­भि­मा­न­मा­त्रा­द्व्य­व­हारः सिध्यतु किमि­न्द्रि­या­दिषु ममा­भि­मा­ने­ने­त्या­श­ङ्क्याह -
नहीति ।
इन्द्रियपदं लिङ्गा­दे­र­प्यु­प­ल­क्ष­णम् , प्रत्य­क्षा­दी­त्या­दि­प­द­प्र­यो­गात् । तथा च प्रत्य­क्ष­लि­ङ्गा­दि­प्र­युक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोता­ह­मि­त्या­दि­रूपः स इन्द्रियादीनि मम­ता­स्प­दा­न्य­गृ­हीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्व­त्रा­नु­पा­दा­ना­स­म्भ­व­क्रि­य­यो­रेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्त­र­त्रा­नु­पा­दा­न­व्य­व­हा­र­यो­रे­का­त्म­क­र्तृ­क­त्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममे­त्य­ध्या­सा­भा­वेऽ­न्धा­दे­रिव द्रष्टृ­त्वा­दि­व्य­व­हारो न स्यादिति भावः ।

इन्द्रि­या­ध्या­से­नैव व्यवहारादलं देहा­ध्या­से­ने­त्यत आह -
न चेति ।
इन्द्रि­या­णा­म­धि­ष्ठा­न­मा­श्रयः । शरीरमित्यर्थः ।

नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किम­ध्या­से­ने­त्य­त्राह -
न चान­ध्य­स्ता­त्म­भा­वे­नेति ।
अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः ।

नन्वात्मनो देहा­दि­भि­रा­ध्या­सि­क­स­म्ब­न्धोऽपि मास्तु, स्वतश्चेतनतया प्रमा­तृ­त्वो­प­पत्तेः । न च सुषुप्तौ प्रमा­तृ­त्वा­पत्तिः करणोपरमादिति तत्राह -
न चैतस्मिन्निति ।
प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्या­श्र­य­त्वा­योगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जग­दा­न्ध्य­प्र­सङ्गः, वृत्ते­र्ज­ड­त्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदा­श्र­य­त्व­म­स­ङ्ग­स्या­त्मनो वृत्ति­म­न्म­न­स्ता­दा­त्म्या­ध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चास­ती­त्य­क्ष­रार्थः ।

तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -
न चेति ।

तस्मादात्मनः प्रमा­तृ­त्वा­दि­व्य­व­हा­रा­र्थ­म­ध्या­सोऽ­ङ्गी­क­र्तव्य इत्य­नु­मा­ना­र्था­पत्त्योः फलमुपसंहरति -
तस्मादिति ।
प्रमा­ण­स­त्त्वा­दि­त्यर्थः ।

यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति -
तस्मादिति ।
अहमित्यध्यासस्य प्रमा­त्र­न्त­र्ग­त­त्वे­ना­दो­ष­त्वात् , अवि­द्या­व­दा­श्र­या­ण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमा­त्र­न्त­र्ग­त­त्वान्न दोषः, येन प्रत्य­क्षा­दी­ना­म­प्रा­माण्यं भवेदिति भावः ।

ननु यदु­क्त­म­न्व­य­व्य­ति­रे­काभ्यां व्यव­हा­रोऽ­ध्या­स­कार्य इति, तदयुक्तं विदु­षा­म­ध्या­सा­भा­वेऽपि व्यव­हा­र­दृ­ष्टे­रि­त्यत आह -
पश्वादिभिश्चेति ।
चशब्दः शङ्का­नि­रा­सार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्ति­क­मा­त्मा­ना­त्म­भे­द­ज्ञा­नम् । आद्ये बाधि­ता­ध्या­सा­नु­वृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परो­क्ष­ज्ञा­न­स्या­प­रो­क्ष­भ्रा­न्त्य­नि­व­र्त­क­त्वात् , विवेकिनामपि व्यवहारकाले पश्वा­दि­भि­र­वि­शे­षात् अध्यासवत्त्वेन तुल्य­त्वा­द्व्य­व­हा­रोऽ­ध्या­स­कार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवे­कि­नोऽ­ध्या­स­वन्तः, व्यव­हा­र­व­त्त्वात् , पश्वादिवदिति ।

तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति -
यथाहीति ।

विज्ञा­न­स्या­नु­कू­लत्वं प्रतिकूलत्वं चेष्टा­नि­ष्ठ­सा­ध­न­गो­च­र­त्वम् , तदेवोदाहरति -
यथेति ।
अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनु­भू­त­जा­ती­य­त्वात् , अनु­भू­त­तृ­ण­व­दि­त्य­नु­माय व्यव­हा­र­न्ती­त्यर्थः ।

अधुना हेतोः पक्षधर्मतामाह -
एवमिति ।
व्युत्प­न्न­चित्ता अपीत्यन्वयः । विवे­कि­नोऽ­पी­त्यर्थः ।

फलितमाह -
अत इति ।
अनु­भ­व­ब­ला­दि­त्यर्थः ।

समान इति ।
अध्या­स­का­र्य­त्वेन तुल्येत्यर्थः ।

नन्वस्माकं प्रवृ­त्ति­र­ध्या­सा­दिति न पश्वादयो ब्रुवन्ति, नापि परे­षा­मे­त­त्प्र­त्य­क्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह -
पश्वादीनां चेति ।
तेषा­मा­त्मा­ना­त्म­नो­र्ज्ञा­न­मा­त्र­मस्ति न विवेकः, उपदेशाभावात् । अतः साम­ग्री­स­त्त्वा­द­ध्या­स­स्तेषां प्रसिद्ध इत्यर्थः ।

निगमयति -
तत्सामान्येति ।
तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्श­ना­द्वि­वे­कि­ना­म­प्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यव­हा­र­स्या­ध्या­स­का­र्य­त्वे­ने­त्युक्तं पुरस्तात् ।

तत्रो­क्ता­न्व­य­व्य­ति­रेकौ स्मारयति -
तत्काल इति ।
तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्यु­क्ता­न्व­या­दि­मा­निति यावत् । अतो व्यव­हा­र­लि­ङ्गा­द्वि­वे­कि­ना­मपि देहा­दि­ष्व­हं­म­मा­भि­मा­नोऽ­स्ती­त्य­न­व­द्यम् ।

ननु लौकि­क­व्य­व­हा­र­स्या­ध्या­सि­क­त्वेऽपि ज्योति­ष्टो­मा­दि­व्य­व­हा­रस्य नाध्या­स­ज­न्य­त्वम् , तस्य देहा­ति­रि­क्ता­त्म­ज्ञा­न­पू­र्व­क­त्वा­दि­त्या­शङ्क्य हेतुमङ्गीकरोति -
शास्त्रीये त्विति ।

तर्हि कथं वैदि­क­क­र्म­णोऽ­ध्या­स­ज­न्य­त्व­सि­द्धि­रि­त्या­शङ्क्य किं तत्र देहा­न्या­त्म­धी­मा­त्र­म­पे­क्षि­त­मुत, आत्म­त­त्त्व­ज्ञा­नम् , आद्ये तस्या­ध्या­सा­बा­ध­क­त्वा­त्त­त्सि­द्धि­रि­त्याह -
तथापीति ।

न द्वितीय इत्याह -
न वेदान्तेति ।
क्षुत्पि­पा­सा­दि­ग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्वि­प­री­ता­त्म­त­त्त्व­ज्ञा­नम् , अनु­प­यो­गा­त्प्र­वृ­त्ति­बा­धा­च्चे­त्यर्थः ।

शास्त्री­य­क­र्म­णोऽ­ध्या­स­ज­न्यत्वं निगमयति -
प्राक्चेति ।

अध्यासे आगमं प्रमाणयति -
तथा हीति ।
यथा प्रत्य­क्षा­नु­मा­ना­र्था­प­त्त­योऽ­ध्यासे प्रमाणं तथा­ग­मोऽ­पी­त्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत’, ‘कृष्ण­के­शोऽ­ग्नी­ना­द­धीत’ इत्यागमो ब्राह्म­णा­दि­प­दै­र­धि­का­रिणं वर्णा­द्य­भि­मा­नि­न­म­नु­व­द­न्न­ध्यासं गमयतीति भावः ।

एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति -
अध्यासो नामेति ।

उदाहरति -
तद्यथेति ।
तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्ध­र्मा­न्सा­क­ल्या­दी­न्दे­ह­वि­शि­ष्टा­त्म­न्य­ध्य­स्यति, तद्ध­र्म­ज्ञा­ना­त्स्व­स्मि­न्स्त­त्तु­ल्य­ध­र्मा­न­ध्य­स्य­ती­त्यर्थः । भेदा­प­रो­क्ष­ज्ञाने तद्ध­र्मा­ध्या­सा­यो­गात् , अन्य­था­ख्या­त्य­न­ङ्गी­का­रा­च्चेति द्रष्टव्यम् ।

देहे­न्द्रि­य­ध­र्मा­न्म­नो­वि­शि­ष्टा­त्म­न्य­ध्य­स्य­ती­त्याह -
तथेति ।
कृश­त्वा­दि­ध­र्म­वतो देहादेरात्मनि तादात्म्येन कल्पि­त­त्वा­त्त­द्धर्माः साक्षा­दा­त्म­न्य­ध्यस्ता इति मन्तव्यम् ।

अज्ञा­त­प्र­त्य­ग्रूपे साक्षिणि मनो­ध­र्मा­ध्या­स­माह -
तथान्तःकरणेति ।

धर्मा­ध्या­स­मुक्त्वा तद्वदेव धर्म्यध्यासमाह -
एवमिति ।
अन्तःकरणं साक्षि­ण्य­भे­दे­ना­ध्यस्य तद्धर्मान् कामा­दी­न­ध्य­स्य­तीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्राति­लो­म्ये­ना­स­ज्ज­ड­दुः­खा­त्म­का­ह­ङ्का­रा­दि­वि­ल­क्ष­ण­तया सच्चि­त्सु­खा­त्म­क­त्वे­ना­ञ्चति प्रकाशत इति प्रत्यक् ।

एव­मा­त्म­न्य­ना­त्म­त­द्ध­र्मा­ध्या­स­मु­दा­हृ­त्या­ना­त्म­न्या­त्म­नोऽपि संसृ­ष्ट­त्वे­ना­ध्या­स­माह -
तञ्चेति ।
अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जग­दा­न्ध्या­पत्तेः । न चान­ध्य­स्त­स्या­ध्यासे भानमस्ति । तस्मा­द्र­ज­ता­दा­वि­दम् इवात्मनः संसर्गाध्यास एष्टव्यः ।

तद्विपर्ययेणेति ।
तस्याध्यस्तस्य जडस्य विप­र्य­योऽ­धि­ष्ठा­न­त्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मना संसर्गः, मन­स्य­ज्ञा­नो­प­हि­तस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्या­द्य­ध्या­सा­त्क­र्तृ­त्वा­दि­लाभः, बुद्ध्यादौ चात्मा­ध्या­सा­च्चै­त­न्य­लाभ इति भावः ।

वर्णि­ता­ध्या­स­मु­प­सं­ह­रति -
एवमयमिति ।
अना­द्य­वि­द्या­त्म­क­तया कार्या­ध्या­स­स्या­ना­दि­त्व­म­ध्या­सा­त्सं­स्का­र­स्त­तोऽ­ध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसा­भा­वा­दा­न­न्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति ।

हेतुमुक्त्वा स्वरूपमाह -
मिथ्येति ।
मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्र­ती­ति­श्चे­त्ये­वं­स्व­रूप इत्यर्थः ।

तस्य कार्यमाह -
कर्तृत्वेति ।

प्रमाणं निगमयति -
सर्वेति ।
साक्षि­प्र­त्य­क्ष­मे­वा­ध्या­स­ध­र्मि­ग्रा­हकं मानम् , अनुमानादिकं तु सम्भा­वा­ना­र्थ­मि­त्य­भि­प्रेत्य प्रत्य­क्षो­प­सं­हारः कृतः ।

एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति -
अस्येति ।

कर्तृ­त्वा­द्य­न­र्थ­हे­तो­र­ध्या­सस्य समू­ल­स्या­त्य­न्ति­क­नाशो मोक्षः स केनेत्यत आह -
आत्मेति ।
ब्रह्मा­त्मै­क्य­सा­क्षा­त्का­रस्य प्रतिपत्तिः श्रव­णा­दि­भि­र­प्र­ति­ब­न्धेन लाभस्तस्या इत्यर्थः ।

विद्यायां कारणमाह -
सर्व इति ।
आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः । विचा­रि­त­वे­दा­न्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्था­त्त­द्वि­चा­रा­त्म­क­शा­स्त्र­स्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।

ननु वेदान्तेषु प्राणा­द्यु­पा­स्तीनां भाना­दा­त्मै­क्य­मेव तेषामर्थ इति कथमित्यत आह -
यथा चेति ।
शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तै­का­ग्र्य­द्वा­रा­त्मै­क्य­ज्ञा­ना­र्थ­त्वा­त्त­द्वा­क्या­ना­मपि महा­ता­त्प­र्य­मैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विष­य­प्र­यो­ज­न­व­त्वा­च्छा­स्त्र­मा­र­म्भ­णी­य­मिति दर्शितम् ॥
॥ इति प्रथमवर्णकम् ॥

विचारस्य साक्षाद्विषया वेदान्ताः, तेषां गता­र्थ­त्वा­ग­ता­र्थ­त्वा­भ्या­मा­र­म्भ­स­न्देहे कृत्स्नस्य वेदस्य विधिपरत्वात् , विधेश्च ‘अथातो धर्मजिज्ञासा’ इत्यादिना पूर्वतन्त्रेण विचारितत्वात् , अवगतार्था एव वेदान्ता इत्य­व्य­व­हि­त­वि­ष­या­भा­वा­न्ना­रम्भ इति प्राप्ते ब्रूते -
वेदान्तेति ।
वेदा­न्त­वि­ष­य­क­पू­जि­त­वि­चा­रा­त्म­क­शा­स्त्रस्य व्याख्या­तु­मि­ष्टस्य सूत्र­स­न्द­र्भ­स्येदं प्रथ­म­सू­त्र­मि­त्यर्थः । यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात् , ब्रह्मणि मानाभावात् । अतो ब्रह्मणो जिज्ञा­स्य­त्वोक्त्या केनापि तन्त्रे­णा­न­व­ग­त­ब्र­ह्म­प­र­वे­दा­न्त­वि­चार आरम्भणीय इति सूत्र­कृ­द्द­र्श­यति । तच्च ‘व्याचि­ख्या­सि­तस्य’ इति पदेन भाष्यकारो बभाषे ॥
॥ इति द्वितीयवर्णकम् ॥